श्रवणम्

5.39.3 समानपद
यत्ते᳚ दि॒त्सु प्र॒राध्यं॒ मनो॒ अस्ति᳚ श्रु॒तं बृ॒हत् ।
तेन᳚ दृ॒ळ्हा चि᳚दद्रिव॒ आ वाजं᳚ दर्षि सा॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । ते॒ । दि॒त्सु । प्र॒॑राध्य᳚म् । मनः᳚ । अस्ति᳚ । श्रु॒तम् । बृ॒हत् ।
तेन᳚ । दृ॒ळ्हा । चि॒त् । अ॒द्रि॒॑वः॒ । आ । वाज᳚म् । द॒र्षि॒ । सा॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र ते तव यद्दित्सुदानेषु प्रराध्यं प्रकर्षेणस्तुत्यं श्रुतं विश्र्तं बृहत् महत् मनःअस्ति तेनमनसा हेअद्रिवोवज्रवन्निन्द्र दृह्ळाचित् दृढमपि वाजमन्नं आदर्षि आदरयसि सातयेस्मत्संभजनायलाभायवा ॥ ३ ॥