श्रवणम्

5.39.2
यन्मन्य᳚से॒ वरे᳚ण्य॒मिन्द्र᳚ द्यु॒क्षं तदा भ᳚र ।
वि॒द्याम॒ तस्य᳚ ते व॒यमकू᳚पारस्य दा॒वने᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । मन्य᳚से । वरे᳚ण्यम् । इन्द्र᳚ । द्यु॒क्षम् । तत् । आ । भ॒र॒ ।
वि॒द्याम᳚ । तस्य᳚ । ते॒ । व॒यम् । अकू᳚पारस्य । दा॒वने᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र यत् द्युक्षमन्नं वरेण्यं वरणीयं मन्यसे तत् द्युक्षं आभरास्मभ्यं ते तवसंबन्धिनोवयं तस्य तादृशस्योक्तलक्षणस्याकूपारस्य अकुत्सितः पारोन्तोयस्यतादृशस्यान्नस्य दावने दाने विद्याम स्याम ॥ २ ॥ वाजपेयेअतिरिक्तोक्थ्येयत्तेदित्स्वेषा सूत्रितंच-यत्तेदित्सुप्रराध्यंत्वामिच्छवसस्पतइति ।