श्रवणम्

5.39.4
मंहि᳚ष्ठं वो म॒घोनां॒ राजा᳚नं चर्षणी॒नाम् ।
इन्द्र॒मुप॒ प्रश᳚स्तये पू॒र्वीभि᳚र्जुजुषे॒ गिरः᳚ ॥
▶ पदपाठः (Word-by-word)
मंहि᳚ष्ठम् । वः॒ । म॒घोना᳚म् । राजा᳚नम् । च॒र्ष॒णी॒नाम् ।
इन्द्र᳚म् । उप᳚ । प्र॑श᳚स्तये । पू॒र्वीभिः᳚ । जु॒जु॒षे॒ । गिरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मघोनां हविर्लक्षणधनवतां वोयुष्माकं मंहिष्ठं अतिशयेनपूज्यं चर्षणीनांमनुष्याणांराजानं इन्द्रं उपउपेत्य प्रशस्तये प्रशंसितुं पूर्वीभिः पुरातनीभिः वाग्भिःगिरः स्तोतारोजुजुषे सेवन्ते ॥ ४ ॥