अजा᳚तशत्रुम॒जरा॒ स्व᳚र्व॒त्यनु᳚ स्व॒धामि᳚ता द॒स्ममी᳚यते ।
सु॒नोत᳚न॒ पच᳚त॒ ब्रह्म᳚वाहसे पुरुष्टु॒ताय᳚ प्रत॒रं द᳚धातन ॥
सु॒नोत᳚न॒ पच᳚त॒ ब्रह्म᳚वाहसे पुरुष्टु॒ताय᳚ प्रत॒रं द᳚धातन ॥
पदपाठः (Word-by-word)
अजा᳚त॑शत्रुम् । अ॒जरा᳚ । स्वः᳚॑वती । अनु᳚ । स्व॒धा । अमि᳚ता । द॒स्मम् । ई॒य॒ते॒ ।
सु॒नोत᳚न । पच᳚त । ब्रह्म᳚॑वाहसे । पु॒रु॒॑स्तु॒ताय᳚ । प्र॒॑त॒रम् । द॒धा॒त॒न॒ ॥
सु॒नोत᳚न । पच᳚त । ब्रह्म᳚॑वाहसे । पु॒रु॒॑स्तु॒ताय᳚ । प्र॒॑त॒रम् । द॒धा॒त॒न॒ ॥
सायणभाष्यम् (Sayana Commentary)
अजातशत्रुं अनुत्पन्नाः शातयितारोयस्यतं दस्मं शत्रूणामुपक्षपयितारं अजरा अक्षीणास्वर्वतीस्वरणवतीअमिता अपरिमिता स्वधा अन्नं हविरन्वीयते नुप्राप्नोति तदर्थं हेऋत्विजः सुनोतन अभिषुणुत पचत पुरोडाशादिकं कस्मै ब्रह्मवाहसे ब्रह्मणः परिवृढस्यस्तोत्रस्यवाहकायपुरुष्टुतायबहुभिःस्तुतायेन्द्राय प्रतरं प्रकृष्टतरं दधातन धारयत स्वस्वोचितकर्म ॥ १ ॥