श्रवणम्

5.34.7 समानपद
समीं᳚ प॒णेर᳚जति॒ भोज᳚नं मु॒षे वि दा॒शुषे᳚ भजति सू॒नरं॒ वसु᳚ ।
दु॒र्गे च॒न ध्रि᳚यते॒ विश्व॒ आ पु॒रु जनो॒ यो अ᳚स्य॒ तवि᳚षी॒मचु᳚क्रुधत् ॥
▶ पदपाठः (Word-by-word)
सम् । ई॒म् । प॒णेः । अ॒ज॒ति॒ । भोज᳚नम् । मु॒षे । वि । दा॒शुषे᳚ । भ॒ज॒ति॒ । सू॒नर᳚म् । वसु᳚ ।
दुः॒॑गे । च॒न । ध्रि॒य॒ते॒ । विश्वः᳚ । आ । पु॒रु । जनः᳚ । यः । अ॒स्य॒ । तवि᳚षीम् । अचु᳚क्रुधत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ईमयमिन्द्रः पणेर्वणिजइव लुब्धकस्यादातुर्भोजनंधनमन्नंवामुषेचोरयितुंसमजति सम्यग्गच्छति गत्वाचादायदाशुषेहविर्दात्रे -यजमानायविभजति सूनरंशोभनमनुष्यंवसुधनं अयष्टुर्धनमाकृष्ययष्ट्रेप्रयच्छतीत्यर्थः नकेवलंवणिक् धनप्रदानमात्रं किंतु पुरुपुरूणिबहून्यन्यान्यपिधनानि किंच दुर्गेचनदुःखेननगन्तव्ये आपद्यपिविश्वःसर्वोपिदातृजनः आध्रियते आस्थाप्यते योजनः अस्येन्द्रस्यतविषींबलमचुक्रुधत् विहिताकरणादिनातस्यपणेरजतीतिपूर्वशेषः यद्वा योस्यतविषीमचुक्रुधत् ससर्वोपिजनोदुर्गेचनाध्रियते इन्द्रेणचनेत्येकपदमध्ये -तृसंप्रदायप्राप्तम् ॥ ७ ॥