वि॒त्वक्ष᳚ण॒ः समृ᳚तौ चक्रमास॒जो॑सु᳚न्वतो॒ विषु᳚णः सुन्व॒तो वृ॒धः ।
इन्द्रो॒ विश्व᳚स्य दमि॒ता वि॒भीष᳚णो यथाव॒शं न᳚यति॒ दास॒मार्य᳚ः ॥
इन्द्रो॒ विश्व᳚स्य दमि॒ता वि॒भीष᳚णो यथाव॒शं न᳚यति॒ दास॒मार्य᳚ः ॥
पदपाठः (Word-by-word)
वि॒॑त्वक्ष᳚णः । सम्॑ऋ᳚तौ । च॒क्र॒म्॑आ॒स॒जः । असु᳚न्वतः । विषु᳚णः । सु॒न्व॒तः । वृ॒धः ।
इन्द्रः᳚ । विश्व᳚स्य । द॒मि॒ता । वि॒॑भीष᳚णः । य॒था॒॑व॒शम् । न॒य॒ति॒ । दास᳚म् । आर्यः᳚ ॥
इन्द्रः᳚ । विश्व᳚स्य । द॒मि॒ता । वि॒॑भीष᳚णः । य॒था॒॑व॒शम् । न॒य॒ति॒ । दास᳚म् । आर्यः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
समृतौसंग्रामेवित्वक्षणः विशेषेणतनूकर्ताशत्रूणांतदर्थंचक्रमासजः रथचक्रस्यासंजयिता असुन्वतोयजमानस्यविषुणः पराङ्मुखः सुन्वतोयजमानस्यवृधोवर्धयिताइन्द्रोविश्वस्यदमिताशिक्षयिताविभीषणः भयजनकः आर्यः स्वामी यथावशंयथेच्छंदासंदासकर्माणं -जनंनयतिस्ववशम् ॥ ६ ॥