आ यः सोमे᳚न ज॒ठर॒मपि᳚प्र॒ताम᳚न्दत म॒घवा॒ मध्वो॒ अन्ध᳚सः ।
यदीं᳚ मृ॒गाय॒ हन्त᳚वे म॒हाव᳚धः स॒हस्र᳚भृष्टिमु॒शना᳚ व॒धं यम᳚त् ॥
यदीं᳚ मृ॒गाय॒ हन्त᳚वे म॒हाव᳚धः स॒हस्र᳚भृष्टिमु॒शना᳚ व॒धं यम᳚त् ॥
पदपाठः (Word-by-word)
आ । यः । सोमे᳚न । ज॒ठर᳚म् । अपि᳚प्रत । अम᳚न्दत । म॒घ॑वा᳚ । मध्वः᳚ । अन्ध᳚सः ।
यत् । ई॒म् । मृ॒गाय᳚ । हन्त᳚वे । म॒हा॑व᳚धः । स॒हस्र᳚॑भृष्टिम् । उ॒शना᳚ । व॒धम् । यम᳚त् ॥
यत् । ई॒म् । मृ॒गाय᳚ । हन्त᳚वे । म॒हा॑व᳚धः । स॒हस्र᳚॑भृष्टिम् । उ॒शना᳚ । व॒धम् । यम᳚त् ॥
सायणभाष्यम् (Sayana Commentary)
योमघवा सोमेनजठरंस्वकीयं आसर्वतः अपिप्रत अपूरयत् मध्वोमधुरसस्यन्धसः सोमस्यपानेनामंदतातृप्यत् यद्यदा ईमयंमृगायैतन्नामकायासुरायहन्तवे तंहन्तुंमहावधः महावज्रः सहस्रभृष्टिरपरिमिततेजाः उशनाकामयमानःशत्रुं यद्वा उशनसासहवधं वज्रंयमत् उदयच्छत् तदापिप्रतामंदत ॥ २ ॥