श्रवणम्

5.34.8
सं यज्जनौ᳚ सु॒धनौ᳚ वि॒श्वश᳚र्धसा॒ववे॒दिन्द्रो᳚ म॒घवा॒ गोषु᳚ शु॒भ्रिषु᳚ ।
युजं॒ ह्य१॒᳚न्यमकृ᳚त प्रवेप॒न्युदीं॒ गव्यं᳚ सृजते॒ सत्व᳚भि॒र्धुनि᳚ः ॥
▶ पदपाठः (Word-by-word)
सम् । यत् । जनौ᳚ । सु॒॑धनौ᳚ । वि॒श्व॑श᳚र्धसौ । अवे᳚त् । इन्द्रः᳚ । म॒घ॑वा᳚ । गोषु᳚ । शु॒भ्रिषु᳚ ।
युज᳚म् । हि । अ॒न्यम् । अकृ᳚त । प्र॒॑वे॒प॒नी । उत् । ई॒म् । गव्य᳚म् । सृ॒ज॒ते॒ । सत्व᳚॑भिः । धुनिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

समवेत् संजानाति यद्यदाजनौपरस्परप्रतिद्वंद्विनौ सुधनौ शोभनधनौ विश्वशर्धसौ व्याप्तबलौ बहूत्साहौवा तदा मघवाधनवानिन्द्रोगोषुशुभ्रिषुशोभनासुगोषुनिमित्तभूतासुअन्यंयष्टारंयुजं सहायमक्रुतकृतवान् प्रवेपनीशत्रूणांप्रवेपनवान् ईमस्मै गव्यंगोसमूहं उत्सृजते सत्वभिर्मरुद्भिः सहधुनिःमेघानांकंपयितेन्द्रः यजमानमयजमानंवायंजानातिगोनिमित्तंज्ञात्वायज्वनेगोसमूहं प्रयच्छतीत्यर्थः ॥ ८ ॥