श्रवणम्

5.66.1
आ चि᳚कितान सु॒क्रतू᳚ दे॒वौ म᳚र्त रि॒शाद᳚सा ।
वरु᳚णाय ऋ॒तपे᳚शसे दधी॒त प्रय᳚से म॒हे ॥
▶ पदपाठः (Word-by-word)
आ । चि॒कि॒ता॒न॒ । सु॒क्रतू॒ इति᳚ सु॒॑क्रतू᳚ । दे॒वौ । म॒र्त॒ । रि॒शाद᳚सा ।
वरु᳚णाय । ऋ॒त॑पे᳚शसे । द॒धी॒त । प्रय᳚से । म॒हे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेचिकितान जानन् स्तुतिं हेमर्त मनुष्य शतहव्यत्वमितितस्यैवंसंबोधनं सुक्रतू शोभनकर्माणौ रिशादसा हिंसकानांहिंसकौदेवौ आ आकारयेतिशेषः आहूयच ऋतपेशसे पेशइतिरूपनाम ऋतमुदकं उदकमेवरूपंयस्यतादृशाय वरुणाय प्रयसे मत्वर्थोलुप्यते हविर्लक्षणा- न्नवते महे महतेपूज्याय दधीतदद्याः हविरितिशेषः द्वितीयार्थेवाचतुर्थी महद्धविर्दधीतमहतोन्नस्यलाभायेतिवायोज्यं ॥ १ ॥