ता हि क्ष॒त्रमवि᳚ह्रुतं स॒म्यग᳚सु॒र्य१॒᳚माशा᳚ते ।
अध᳚ व्र॒तेव॒ मानु᳚षं॒ स्व१॒᳚र्ण धा᳚यि दर्श॒तम् ॥
अध᳚ व्र॒तेव॒ मानु᳚षं॒ स्व१॒᳚र्ण धा᳚यि दर्श॒तम् ॥
पदपाठः (Word-by-word)
ता । हि । क्ष॒त्रम् । अवि᳚॑ह्रुतम् । स॒म्यक् । अ॒सु॒र्य᳚म् । आशा᳚ते॒ इति᳚ ।
अध᳚ । व्र॒ता॑इ᳚व । मानु᳚षम् । स्वः᳚ । न । धा॒यि॒ । द॒र्श॒तम् ॥
अध᳚ । व्र॒ता॑इ᳚व । मानु᳚षम् । स्वः᳚ । न । धा॒यि॒ । द॒र्श॒तम् ॥
सायणभाष्यम् (Sayana Commentary)
ताहि हीतिहेतौ यस्मात्ता तौ क्षत्रं बलं अविह्रुतं अहिंस्यं असुर्यं असुरविघाति महद्बलं सम्यगाशाते व्याप्नुतः अध अतोहेतोर्मानुषंमनु- ष्येषुप्रवृत्तं व्रतेव कर्मेव तद्यथा मनुष्येषुनियतं स्वर्णसूर्यइव सयथादिविदृश्यतेतद्वत् दर्शतं दर्शनीयं बलं धायि यज्ञेनिहितं ॥ २ ॥