आ यद्वा᳚मीयचक्षसा॒ मित्र᳚ व॒यं च᳚ सू॒रयः᳚ ।
व्यचि᳚ष्ठे बहु॒पाय्ये॒ यते᳚महि स्व॒राज्ये᳚ ॥
व्यचि᳚ष्ठे बहु॒पाय्ये॒ यते᳚महि स्व॒राज्ये᳚ ॥
पदपाठः (Word-by-word)
आ । यत् । वा॒म् । ई॒य॒॑च॒क्ष॒सा॒ । मित्रा᳚ । व॒यम् । च॒ । सू॒रयः᳚ ।
व्यचि᳚ष्ठे । ब॒हु॒॑पाय्ये᳚ । यते᳚महि । स्व॒॑राज्ये᳚ ॥
व्यचि᳚ष्ठे । ब॒हु॒॑पाय्ये᳚ । यते᳚महि । स्व॒॑राज्ये᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेईयचक्षसा व्याप्तदर्शनौ हेमित्रा मित्रावरुणौ वां युवां यत् येवयंच सूरयः स्तोतारः आ आह्वयामः व्यचिष्ठे अत्यन्तविस्तृते बहुपा- य्ये बहुभिर्गन्तव्ये बहुभीरक्षितव्येवा स्वराज्ये स्वराट्त्वाय एवंविधाराज्यार्थं यतेमहि गच्छेम ॥ ६ ॥
बळिल्थादेवेतिपंचर्चमेकादशंसूक्तं अत्रेयमनुक्रमणिका-बळित्थापंचयजतइति यजतोमामात्रेयऋषिः आनुष्टुभंत्वित्युक्तत्वादिदम- प्यानुष्टुभं मित्रावरुणौदेवता विनियोगोलैंगिकः ।