ता वा॒मेषे॒ रथा᳚नामु॒र्वीं गव्यू᳚तिमेषाम् ।
रा॒तह᳚व्यस्य सुष्टु॒तिं द॒धृक्स्तोमै᳚र्मनामहे ॥
रा॒तह᳚व्यस्य सुष्टु॒तिं द॒धृक्स्तोमै᳚र्मनामहे ॥
पदपाठः (Word-by-word)
ता । वा॒म् । एषे᳚ । रथा᳚नाम् । उ॒र्वीम् । गव्यू᳚तिम् । ए॒षा॒म् ।
रा॒त॑ह᳚व्यस्य । सु॒॑स्तु॒तिम् । द॒धृक् । स्तोमैः᳚ । म॒ना॒म॒हे॒ ॥
रा॒त॑ह᳚व्यस्य । सु॒॑स्तु॒तिम् । द॒धृक् । स्तोमैः᳚ । म॒ना॒म॒हे॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेमित्रावरुणौ ता तौप्रसिद्धौ वां युवां रथानां अस्मदीयानामेषांपुरतोवर्तमानानां उर्वी प्रभूतां गव्यूतिं अतिविस्तृतंमार्गं एषे गन्तुं मार्गरक्षणायेत्यर्थः तुमर्थेअसेन्प्रत्ययः तदर्थंवां मनामहे स्तुमः रातहव्यस्यऋषेः रातहव्यसंबन्धिभिः सुष्टुतिं सुष्टुतिभिः शोभनस्तुतिसा- धनैः स्तोमैः दृधृक् धर्षकौयुवां ॥ ३ ॥