अधा॒ हि काव्या᳚ यु॒वं दक्ष᳚स्य पू॒र्भिर᳚द्भुता ।
नि के॒तुना॒ जना᳚नां चि॒केथे᳚ पूतदक्षसा ॥
नि के॒तुना॒ जना᳚नां चि॒केथे᳚ पूतदक्षसा ॥
पदपाठः (Word-by-word)
अध᳚ । हि । काव्या᳚ । यु॒वम् । दक्ष᳚स्य । पूः॒॑भिः । अ॒द्भु॒ता॒ ।
नि । के॒तुना᳚ । जना᳚नाम् । चि॒केथे॒ इति᳚ । पू॒त॒॑द॒क्ष॒सा॒ ॥
नि । के॒तुना᳚ । जना᳚नाम् । चि॒केथे॒ इति᳚ । पू॒त॒॑द॒क्ष॒सा॒ ॥
सायणभाष्यम् (Sayana Commentary)
अध अपिच हिप्रसिद्धौ काव्या स्तुत्यौ युवं युवां दक्षस्य प्रवृद्धस्य ममपूर्भिः पूरकैः स्तवैः हेअद्भुता महान्तौ आश्चर्यभूतौसन्तौ केतु- ना प्रज्ञानेनअनुकूलेनमनसा जनानां यजमानानामित्यर्थः स्तोत्रंनिचिकेथे नितरांजानीथः हेपूतदक्षसा शुद्धबलौयुवां ॥ ४ ॥