द्यु॒तद्या᳚मानं बृह॒तीमृ॒तेन᳚ ऋ॒ताव᳚रीमरु॒णप्सुं᳚ विभा॒तीम् ।
दे॒वीमु॒षसं॒ स्व᳚रा॒वह᳚न्तीं॒ प्रति॒ विप्रा᳚सो म॒तिभि᳚र्जरन्ते ॥
दे॒वीमु॒षसं॒ स्व᳚रा॒वह᳚न्तीं॒ प्रति॒ विप्रा᳚सो म॒तिभि᳚र्जरन्ते ॥
पदपाठः (Word-by-word)
द्यु॒तत्॑या᳚मानम् । बृ॒ह॒तीम् । ऋ॒तेन᳚ । ऋ॒त॑व᳚रीम् । अ॒रु॒ण॑प्सु᳚म् । वि॒॑भा॒तीम् ।
दे॒वीम् । उ॒षस᳚म् । स्वः᳚ । आ॒॑वह᳚न्तीम् । प्रति᳚ । विप्रा᳚सः । म॒ति॑भिः᳚ । ज॒र॒न्ते॒ ॥
दे॒वीम् । उ॒षस᳚म् । स्वः᳚ । आ॒॑वह᳚न्तीम् । प्रति᳚ । विप्रा᳚सः । म॒ति॑भिः᳚ । ज॒र॒न्ते॒ ॥
सायणभाष्यम् (Sayana Commentary)
द्युतद्यामानं दीप्तरथं बृहतीं महतीं ऋतेन सत्येन यज्ञेनवा ऋतावरीं ऋतवतीं अरुणप्सुं अरुणरूपां विभातीं व्युच्छन्तीं देवीं द्योतमा- नामुषसं स्व रावहन्तीं सूर्यंगच्छन्तीं एवंमहानुभावामुषसंप्रति विप्रासोमेधाविनः ऋत्विजोमतिभिः स्तुतिभिर्जरन्ते स्तुवन्ति ॥ १ ॥