ए॒षा गोभि᳚ररु॒णेभि᳚र्युजा॒नास्रे᳚धन्ती र॒यिमप्रा᳚यु चक्रे ।
प॒थो रद᳚न्ती सुवि॒ताय᳚ दे॒वी पु᳚रुष्टु॒ता वि॒श्ववा᳚रा॒ वि भा᳚ति ॥
प॒थो रद᳚न्ती सुवि॒ताय᳚ दे॒वी पु᳚रुष्टु॒ता वि॒श्ववा᳚रा॒ वि भा᳚ति ॥
पदपाठः (Word-by-word)
ए॒षा । गोभिः᳚ । अ॒रु॒णेभिः᳚ । यु॒जा॒ना । अस्रे᳚धन्ती । र॒यिम् । अप्र᳚॑आयु । च॒क्रे॒ ।
प॒थः । रद᳚न्ती । सु॒वि॒ताय᳚ । दे॒वी । पु॒रु॒॑स्तु॒ता । वि॒श्व॑वा᳚रा । वि । भा॒ति॒ ॥
प॒थः । रद᳚न्ती । सु॒वि॒ताय᳚ । दे॒वी । पु॒रु॒॑स्तु॒ता । वि॒श्व॑वा᳚रा । वि । भा॒ति॒ ॥
सायणभाष्यम् (Sayana Commentary)
एषोषः अरुणेभिररुणवर्णैर्गोभिर्बलीवर्दैः रथंयुजाना योजयन्ती अस्रेधन्ती अशुष्यन्ती अक्षीणावा किं रयिं धनं अप्रायु अप्रगन्तृ अवि- चलितं चक्रे करोति किंकुर्वती पथोमार्गान् रदन्ती प्रकाशयन्ती किमर्थं सुविताय सुष्ठुगमनाय देवी द्योतमाना बहुभिः स्तुता विश्ववारा सर्वैर्वरणीया विभाति प्रकाशंकरोति ॥ ३ ॥