श्रवणम्

5.80.6
ए॒षा प्र᳚ती॒ची दु᳚हि॒ता दि॒वो नॄन्योषे᳚व भ॒द्रा नि रि᳚णीते॒ अप्स᳚ः ।
व्यू॒र्ण्व॒ती दा॒शुषे॒ वार्या᳚णि॒ पुन॒र्ज्योति᳚र्युव॒तिः पू॒र्वथा᳚कः ॥
▶ पदपाठः (Word-by-word)
ए॒षा । प्र॒ती॒ची । दु॒हि॒ता । दि॒वः । नॄन् । योषा᳚॑इव । भ॒द्रा । नि । रि॒णी॒ते॒ । अप्सः᳚ ।
वि॒॑ऊ॒र्ण्व॒ती । दा॒शुषे᳚ । वार्या᳚णि । पुनः᳚ । ज्योतिः᳚ । यु॒व॒तिः । पू॒र्व॑था᳚ । अ॒क॒रित्य᳚कः ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषोषः प्रतीची अभिमुखासती दिवोदुहिता नॄन् सर्वान्प्राणिनः प्रतिभद्रा योषेव कल्याणवेषायोषिदिवाप्सोरूपंनिरिणीते प्रेरयति किंच दाशुषे हविर्दात्रेयजमानाय वार्याणि वरणीयानि धनानि व्यूर्ण्वती प्रयच्छन्ती युवतिर्नित्ययौवना सर्वत्रमिश्रयन्तीवा पुनरद्यापि पूर्वथा पूर्वमिवज्योतिस्तेजोअकःकरोति ॥ ६ ॥

युंजतेमनइतिपंचर्चंनवमंसूक्तं अत्रेयमनुक्रमणिका-युंजतेपंचश्यावाश्वः सावित्रंतुजागतमिति । श्यावाश्वोनामात्रेयऋषिः जगतीछन्दः सवितादेवता पृष्ठ्याभिप्लवषडहयोःप्रथमेहनिवैश्वदेवशस्त्रे सावित्रनिविद्धानमिदं सूत्रितंच-युंजतेमनइहेहवइतिचतस्रइति । आद्याग्राव- स्तोत्रेपि सूत्रितंच-युंजतेमनउतयुंजतेधियआतूनइन्द्रक्षुमन्तमिति ।