ए॒षा जनं᳚ दर्श॒ता बो॒धय᳚न्ती सु॒गान्प॒थः कृ᳚ण्व॒ती या॒त्यग्रे᳚ ।
बृ॒ह॒द्र॒था बृ᳚ह॒ती वि᳚श्वमि॒न्वोषा ज्योति᳚र्यच्छ॒त्यग्रे॒ अह्ना᳚म् ॥
बृ॒ह॒द्र॒था बृ᳚ह॒ती वि᳚श्वमि॒न्वोषा ज्योति᳚र्यच्छ॒त्यग्रे॒ अह्ना᳚म् ॥
पदपाठः (Word-by-word)
ए॒षा । जन᳚म् । द॒र्श॒ता । बो॒धय᳚न्ती । सु॒॑गान् । प॒थः । कृ॒ण्व॒ती । या॒ति॒ । अग्रे᳚ ।
बृ॒ह॒त्॑र॒था । बृ॒ह॒ती । वि॒श्व॒म्॑इ॒न्वा । उ॒षाः । ज्योतिः᳚ । य॒च्छ॒ति॒ । अग्रे᳚ । अह्ना᳚म् ॥
बृ॒ह॒त्॑र॒था । बृ॒ह॒ती । वि॒श्व॒म्॑इ॒न्वा । उ॒षाः । ज्योतिः᳚ । य॒च्छ॒ति॒ । अग्रे᳚ । अह्ना᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
दर्शता दर्शनीया एषोषा बोधयन्तीकंजनं प्रसुप्रमित्यर्थः पथः सुगान् सुगमनान् क्रुण्वती अग्ने सूर्यस्यपुरस्तात् याति गच्छति कीदृश्युषाः बृहद्रथा प्रभूतरथा बृहती महती विश्वमिन्वा विश्वंव्याप्नुवाना विश्वतर्पणावा ईदृश्युषाः अह्नामग्रे ज्योतिस्तेजोयच्छति ॥ २ ॥