ए॒षा व्ये᳚नी भवति द्वि॒बर्हा᳚ आविष्कृण्वा॒ना त॒न्वं᳚ पु॒रस्ता᳚त् ।
ऋ॒तस्य॒ पन्था॒मन्वे᳚ति सा॒धु प्र᳚जान॒तीव॒ न दिशो᳚ मिनाति ॥
ऋ॒तस्य॒ पन्था॒मन्वे᳚ति सा॒धु प्र᳚जान॒तीव॒ न दिशो᳚ मिनाति ॥
पदपाठः (Word-by-word)
ए॒षा । वि॑ए᳚नी । भ॒व॒ति॒ । द्वि॒॑बर्हाः᳚ । आ॒विः॒॑कृ॒ण्वा॒ना । त॒न्व᳚म् । पु॒रस्ता᳚त् ।
ऋ॒तस्य᳚ । पन्था᳚म् । अनु᳚ । ए॒ति॒ । सा॒धु । प्र॒जा॒न॒ती॑इ᳚व । न । दिशः᳚ । मि॒ना॒ति॒ ॥
ऋ॒तस्य᳚ । पन्था᳚म् । अनु᳚ । ए॒ति॒ । सा॒धु । प्र॒जा॒न॒ती॑इ᳚व । न । दिशः᳚ । मि॒ना॒ति॒ ॥
सायणभाष्यम् (Sayana Commentary)
एषोषाः व्येनीभवति विशेशेणश्वेताभवति द्विबर्हाः द्वयोःप्रथममध्यमयोः स्थानयो परिवृढाउषाः पश्चात्तन्वं स्वीयांतनुमाविष्कृण्वा- ना प्रकटीकुर्वंती कुत्र पुरस्तात्पूर्वस्यांदिशि किं च ऋतस्यादित्यस्य पन्थां पंथानं साधु सम्यगन्वेति किंच प्रजानतीव विश्वंप्रज्ञापयन्ती इवेतिसंप्रयर्थे नदिशोमिनाति नहिनस्ति प्रत्युत दिशः प्रकाशयति अथवा प्रजानतीव अनुगन्तव्यमितिप्रकर्षेण अवगच्छन्तीच ऋतस्यपं- थामन्वेति ॥ ४ ॥