श्रवणम्

5.47.1
प्र॒यु॒ञ्ज॒ती दि॒व ए᳚ति ब्रुवा॒णा म॒ही मा॒ता दु᳚हि॒तुर्बो॒धय᳚न्ती ।
आ॒विवा᳚सन्ती युव॒तिर्म᳚नी॒षा पि॒तृभ्य॒ आ सद᳚ने॒ जोहु᳚वाना ॥
▶ पदपाठः (Word-by-word)
प्र॒यु॒ञ्ज॒ती । दि॒वः । ए॒ति॒ । ब्रु॒वा॒णा । म॒ही । मा॒ता । दु॒हि॒तुः । बो॒धय᳚न्ती ।
आ॒॑विवा᳚सन्ती । यु॒व॒तिः । म॒नी॒षा । पि॒तृ॑भ्यः᳚ । आ । सद᳚ने । जोहु᳚वाना ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्यनिःश्वसितंवेदायोवेदेभ्योखिलंजगत् ॥ निर्ममेतमहंवन्देविद्यातीर्थमहेश्वरम् ॥ १ ॥

अथतृतीयोध्यायआरभ्यते तत्रप्रयुंजतीतिसप्तर्चंतृतीयंसूक्तं प्रतिरथस्यार्षंत्रैष्टुभं पूर्वत्रवैश्वदेवं वैतदित्युक्तत्वादिदमपिवैश्वदेवं प्रयुंजतीसप्तप्रतिरथइत्यनुक्रमणिका । विनियोगोलैंगिकः ।

एषोषस्या प्रयुंजती प्राणिनः प्र्स्तुतेषुकर्मसु दिवोद्युलोकादेतिआगच्छति ब्रुवाणा स्तूयमाना कर्मणिकर्तृप्रत्ययः मही महती माता प्रकाशस्यदेवानांवानिर्मात्री दुहितुः भूम्याबोधयन्तीबोधंकुर्वाणा तदुपजीव्यत्वाद्दुहितृत्वमुपचर्यते यद्वा दुहितुर्दिवइतिसंबन्धः उषसोदिवोदुहितृत्वंव्युच्छादुहितर्दिवइत्यादिषुप्रसिद्धम् । अन्यत्रच दिवोदुहिताभुवनस्यपत्नीत्युषसोदुहितृत्वमाम्नातम् । अतइदमधिगम्यते कदाचिद्द्यौरुषसोजायते उषाश्चदिवइति प्रजापतिर्वैस्वांदुहितरमभ्यध्यायद्दिवमित्यन्यआहुरुषसमित्यन्यइतिहिश्रूयते । लिंगंचदृश्यते कार्यकारणभावव्यत्यये अदितेर्दक्षोजायतदक्षाद्वदितिरिति । किंच आविवासन्ती परिचरन्ती युवतिः मिश्रयन्ती सर्वत्रनित्यतरुणीवा मनीषा स्तुतिमती पितृभ्यः तृतीयार्थेपंचमी पितृभिः पालकैर्देवैः सह सदने यागगृहे आसर्वतोजोहुवाना हूयमाना यद्वा पितृभ्यः कर्मणांपालकेभ्योयजमानेभ्यः इष्टप्रापणेनपालकेभ्योवा तेषामर्थायजोहुवाना ॥ १ ॥