वि त᳚न्वते॒ धियो᳚ अस्मा॒ अपां᳚सि॒ वस्त्रा᳚ पु॒त्राय᳚ मा॒तरो᳚ वयन्ति ।
उ॒प॒प्र॒क्षे वृष᳚णो॒ मोद᳚माना दि॒वस्प॒था व॒ध्वो᳚ य॒न्त्यच्छ᳚ ॥
उ॒प॒प्र॒क्षे वृष᳚णो॒ मोद᳚माना दि॒वस्प॒था व॒ध्वो᳚ य॒न्त्यच्छ᳚ ॥
पदपाठः (Word-by-word)
वि । त॒न्व॒ते॒ । धियः᳚ । अ॒स्मै॒ । अपां᳚सि । वस्त्रा᳚ । पु॒त्राय᳚ । मा॒तरः᳚ । व॒य॒न्ति॒ ।
उ॒प॒॑प्र॒क्षे । वृष᳚णः । मोद᳚मानाः । दि॒वः । प॒था । व॒ध्वः᳚ । य॒न्ति॒ । अच्छ᳚ ॥
उ॒प॒॑प्र॒क्षे । वृष᳚णः । मोद᳚मानाः । दि॒वः । प॒था । व॒ध्वः᳚ । य॒न्ति॒ । अच्छ᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अस्मैसूर्याय धियः स्तुतीः अपांसि कर्माणिचवितन्वते विस्तारयन्ति यजमानाः पुत्राय पुत्रस्थानीयाय मातरोनिर्मात्र्यः उषसोदिशोवा वस्त्रा वस्त्राणि वयन्ति निष्पादयन्ति वस्त्रसदृशानितेजांसिनिबिडानिसंपादयन्तीत्यर्थः वृषणः सेक्तुः सूर्यस्य उपप्रक्षे उपपर्चने संपर्के सति मोदमानाहृष्यन्तोवध्वोवधूस्थानीयाः रश्मयोदिवस्पथा सूर्यसंबन्धिनामार्गेणाच्छास्मदभिमुखं यन्ति गच्छन्तिप्रसरन्ति ॥ ६ ॥