उ॒क्षा स᳚मु॒द्रो अ᳚रु॒षः सु᳚प॒र्णः पूर्व᳚स्य॒ योनिं᳚ पि॒तुरा वि᳚वेश ।
मध्ये᳚ दि॒वो निहि᳚त॒ः पृश्नि॒रश्मा॒ वि च᳚क्रमे॒ रज᳚सस्पा॒त्यन्तौ᳚ ॥
मध्ये᳚ दि॒वो निहि᳚त॒ः पृश्नि॒रश्मा॒ वि च᳚क्रमे॒ रज᳚सस्पा॒त्यन्तौ᳚ ॥
पदपाठः (Word-by-word)
उ॒क्षा । स॒मु॒द्रः । अ॒रु॒षः । सु॒॑प॒र्णः । पूर्व᳚स्य । योनि᳚म् । पि॒तुः । आ । वि॒वे॒श॒ ।
मध्ये᳚ । दि॒वः । नि॑हि᳚तः । पृश्निः᳚ । अश्मा᳚ । वि । च॒क्र॒मे॒ । रज᳚सः । पा॒ति॒ । अन्तौ᳚ ॥
मध्ये᳚ । दि॒वः । नि॑हि᳚तः । पृश्निः᳚ । अश्मा᳚ । वि । च॒क्र॒मे॒ । रज᳚सः । पा॒ति॒ । अन्तौ᳚ ॥
सायणभाष्यम् (Sayana Commentary)
सौर्योयंतृचः उक्षा उदकस्यकामानांवासेक्ता समुद्रः समुन्दनः यद्वा संमोदन्तेतस्मिन्देवाइतिसमुद्रः अरुषः आरोचमानः सुपर्णः सुगमनः पूर्वस्य पूर्वावयवलक्षणेयंपूर्वदिगवयवस्य पितुः पालकस्यान्तरिक्षस्य योनिमुत्पादकमवयवमाविवेश आविष्टवान् पश्चाद्दिवोमध्येनिहितः पृश्निः प्राश्नुत एनंवर्णइति पृश्निरादित्यः अश्मा सर्वत्रव्याप्तः लुप्तोपमावा अश्मसदृशः रजसोन्तरिक्षस्यान्तौ पूर्वापरभागौ विचक्रमे विक्रमते पातिचजगत् जगद्रक्षार्थंक्रमतइत्यर्थः ॥ ३ ॥