तद᳚स्तु मित्रावरुणा॒ तद᳚ग्ने॒ शं योर॒स्मभ्य᳚मि॒दम᳚स्तु श॒स्तम् ।
अ॒शी॒महि᳚ गा॒धमु॒त प्र᳚ति॒ष्ठां नमो᳚ दि॒वे बृ᳚ह॒ते साद᳚नाय ॥
अ॒शी॒महि᳚ गा॒धमु॒त प्र᳚ति॒ष्ठां नमो᳚ दि॒वे बृ᳚ह॒ते साद᳚नाय ॥
पदपाठः (Word-by-word)
तत् । अ॒स्तु॒ । मि॒त्रा॒व॒रु॒णा॒ । तत् । अ॒ग्ने॒ । शम् । योः । अ॒स्मभ्य᳚म् । इ॒दम् । अ॒स्तु॒ । श॒स्तम् ।
अ॒शी॒महि᳚ । गा॒धम् । उ॒त । प्र॒ति॒॑स्थाम् । नमः᳚ । दि॒वे । बृ॒ह॒ते । साद᳚नाय ॥
अ॒शी॒महि᳚ । गा॒धम् । उ॒त । प्र॒ति॒॑स्थाम् । नमः᳚ । दि॒वे । बृ॒ह॒ते । साद᳚नाय ॥
सायणभाष्यम् (Sayana Commentary)
अत्रलिंगसिद्धादेवताः हेमित्रावरुणा मित्रावरुणौ तत् इदंसूक्तंशस्तम् स्तुतमस्तु भवतु हेअग्ने तत्सूक्तंशस्तमस्तु अस्मभ्यं शं सुखाय योर्दुः खानाममिश्रणायेदं शस्तमस्तु वयंचाशीमहि प्राप्नुयाम गाधं स्थितिं उतापिच प्रतिष्ठां स्थितेरविच्छित्तिंचाशीमहि नमोनमस्करोमि दिवे द्योतमानाय सूर्याय बृहते महते साठ्नायाश्रयायविश्वस्य ॥ ७ ॥
कदिप्रियायेतिपंचतुर्थंसूक्तं प्रतिभानुर्नामात्रेयऋषिः जगतीछन्दः विश्वेदेवादेवताः अत्रानुक्रमणिका-कदुपंचप्रतिभानुर्जागतमिति । आभिप्लविकेपंचमेहनिवैश्वदेवशस्त्रेइदंसूक्तंनिविद्धानं सूत्रितंच-कदुप्रियायेतिवैश्वदेवमिति ।