अ॒जि॒रास॒स्तद᳚प॒ ईय᳚माना आतस्थि॒वांसो᳚ अ॒मृत᳚स्य॒ नाभि᳚म् ।
अ॒न॒न्तास᳚ उ॒रवो᳚ वि॒श्वतः᳚ सीं॒ परि॒ द्यावा᳚पृथि॒वी य᳚न्ति॒ पन्था᳚ः ॥
अ॒न॒न्तास᳚ उ॒रवो᳚ वि॒श्वतः᳚ सीं॒ परि॒ द्यावा᳚पृथि॒वी य᳚न्ति॒ पन्था᳚ः ॥
पदपाठः (Word-by-word)
अ॒जि॒रासः᳚ । तत्॑अ᳚पः । ईय᳚मानाः । आ॒त॒स्थि॒॑वांसः᳚ । अ॒मृत᳚स्य । नाभि᳚म् ।
अ॒न॒न्तासः᳚ । उ॒रवः᳚ । वि॒श्वतः᳚ । सी॒म् । परि᳚ । द्यावा᳚पृथि॒वी इति᳚ । य॒न्ति॒ । पन्थाः᳚ ॥
अ॒न॒न्तासः᳚ । उ॒रवः᳚ । वि॒श्वतः᳚ । सी॒म् । परि᳚ । द्यावा᳚पृथि॒वी इति᳚ । य॒न्ति॒ । पन्थाः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अजिरासोगमनशीलाः अजिरिरच्प्रत्ययान्तोजिरशिशिरेत्यादिनानिपातितः तदपः तदेवप्रकाशनरूपंकर्मयस्यतत्तादृशमहरी यमाना -गच्छन्तः अमृतस्य सूर्यस्य नाभिं सन्नाहकं मंडलं अमृतस्योदकस्यवानाभिमन्तरिक्षं आतस्थिवांसः आतिष्ठन्तः अनन्तासःअपरिमिताः उरवोव्याप्ताः पन्थाः पतनशीलाः रश्मयोद्यावापृथिवी परिदिवंच पृथिवींचान्तरिक्षंच विश्वतः परितोयन्ति गच्छन्ति सीमितिपूरणः ॥ २ ॥