श्रवणम्

5.47.4
च॒त्वार᳚ ईं बिभ्रति क्षेम॒यन्तो॒ दश॒ गर्भं᳚ च॒रसे᳚ धापयन्ते ।
त्रि॒धात᳚वः पर॒मा अ᳚स्य॒ गावो᳚ दि॒वश्च᳚रन्ति॒ परि᳚ स॒द्यो अन्ता᳚न् ॥
▶ पदपाठः (Word-by-word)
च॒त्वारः᳚ । ई॒म् । बि॒भ्र॒ति॒ । क्षे॒म॒॑यन्तः᳚ । दश᳚ । गर्भ᳚म् । च॒रसे᳚ । धा॒प॒य॒न्ते॒ ।
त्रि॒॑धात᳚वः । प॒र॒माः । अ॒स्य॒ । गावः᳚ । दि॒वः । च॒र॒न्ति॒ । परि᳚ । स॒द्यः । अन्ता᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

चत्वारऋत्विजः ईमेनमादित्यं क्षेमयन्त क्षेममात्मनइच्छन्तोबिभ्रतिधारयन्ति हविर्भिः स्तुतिभिश्च किंच दशदिशोगर्भं गर्भवन्मध्येउत्पन्नमेनं चरसेचरणाय उदयास्तमयव्यवहाराय धपयन्ते गमयन्ति त्रिधातवः त्रिप्रकाराःशीतोष्णवर्षभेदेनत्रिविधाः अस्यादित्यस्य परमाः उत्कृष्टागावोरश्मयोदिवोन्तरिक्षस्यान्तान् परि परितः सद्यः उदयानन्तरमेवचरन्तिगच्छन्ति ॥ ४ ॥