अग्ने᳚ पावक रो॒चिषा᳚ म॒न्द्रया᳚ देव जि॒ह्वया᳚ ।
आ दे॒वान्व᳚क्षि॒ यक्षि᳚ च ॥
आ दे॒वान्व᳚क्षि॒ यक्षि᳚ च ॥
पदपाठः (Word-by-word)
अग्ने᳚ । पा॒व॒क॒ । रो॒चिषा᳚ । म॒न्द्रया᳚ । दे॒व॒ । जि॒ह्वया᳚ ।
आ । दे॒वान् । व॒क्षि॒ । यक्षि᳚ । च॒ ॥
आ । दे॒वान् । व॒क्षि॒ । यक्षि᳚ । च॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेपावक शोधक रोचिषा स्वदीप्त्या मन्द्रया देवानांमादयित्र्या जिह्वयाच हेदेव द्योतमानाग्ने देवानावक्षि यज्ञार्थमावह यक्षिच तान् यज ॥ १ ॥