श्रवणम्

5.26.2
तं त्वा᳚ घृतस्नवीमहे॒ चित्र᳚भानो स्व॒र्दृश᳚म् ।
दे॒वा{4} आ वी॒तये᳚ वह ॥
▶ पदपाठः (Word-by-word)
तम् । त्वा॒ । घृ॒त॒स्नो॒ इति᳚ घृत॑स्नो । ई॒म॒हे॒ । चित्र᳚भानो॒ इति॒ चित्र᳚॑भानो । स्वः॒॑दृश᳚म् ।
दे॒वान् । आ । वी॒तये᳚ । व॒ह॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेघृतस्नो घृतस्यप्रेरक यद्वा घृतेनजनित हेचित्रभानो चित्रानानाविधाभानवोरश्मयोयस्यासौचित्रभानुः तस्यसंबोधनं स्वर्दृशं सर्वद्रष्टारं तं त्वा त्वांईमहे याचामहे अतोवीतयेहविषां भक्षणायदेवानावह ॥ २ ॥