श्रवणम्

5.26.6
स॒मि॒धा॒नः स᳚हस्रजि॒दग्ने॒ धर्मा᳚णि पुष्यसि ।
दे॒वानां᳚ दू॒त उ॒क्थ्य᳚ः ॥
▶ पदपाठः (Word-by-word)
स॒म्॑इ॒ध॒नः । स॒ह॒स्र॒॑जि॒त् । अग्ने᳚ । धर्मा᳚णि । पु॒ष्य॒सि॒ ।
दे॒वाना᳚म् । दू॒तः । उ॒क्थ्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसहस्रजित् सहस्रजेतरग्ने समिधानः हविर्भिःसमिध्यमानाः उक्थ्यः प्रशस्यस्त्वं देवानांदूतःसन् धर्माणि नः कर्माणि यज्ञादिक्रियाः पुष्यसि पोषयसि ॥ ६ ॥