वी॒तिहो᳚त्रं त्वा कवे द्यु॒मन्तं॒ समि᳚धीमहि ।
अग्ने᳚ बृ॒हन्त᳚मध्व॒रे ॥
अग्ने᳚ बृ॒हन्त᳚मध्व॒रे ॥
पदपाठः (Word-by-word)
वी॒ति॑हो᳚त्रम् । त्वा॒ । क॒वे॒ । द्यु॒॑मन्त᳚म् । सम् । इ॒धी॒म॒हि॒ ।
अग्ने᳚ । बृ॒हन्त᳚म् । अ॒ध्व॒रे ॥
अग्ने᳚ । बृ॒हन्त᳚म् । अ॒ध्व॒रे ॥
सायणभाष्यम् (Sayana Commentary)
हेकवे क्रान्तदर्शिन् अग्ने वीतिहोत्रं क्रांतयज्ञ यद्वा प्रिययज्ञं द्युमन्तं दीप्तिमन्तं बृहन्तं महान्तं त्वा त्वां अध्वरेयज्ञे समिधीमहि समिद्भिःसंदीपयाम: ॥ ३ ॥