श्रवणम्

5.26.4
अग्ने॒ विश्वे᳚भि॒रा ग᳚हि दे॒वेभि᳚र्ह॒व्यदा᳚तये ।
होता᳚रं त्वा वृणीमहे ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । विश्वे᳚भिः । आ । ग॒हि॒ । दे॒वेभिः᳚ । ह॒व्य॑दा᳚तये ।
होता᳚रम् । त्वा॒ । वृ॒णी॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने विश्वेभिः सर्वैः देवेभिः देवैः सह त्वं हव्यदातये हविषांदात्रे यजमानाय तदर्थं आगहि यज्ञंप्रत्यागच्छ यतः होतारंदेवानामाह्वातारं त्वा त्वां वृणीमहे प्रार्थयामहे ॥ ४ ॥