प्र य॒ज्ञ ए᳚त्वानु॒षग॒द्या दे॒वव्य᳚चस्तमः ।
स्तृ॒णी॒त ब॒र्हिरा॒सदे᳚ ॥
स्तृ॒णी॒त ब॒र्हिरा॒सदे᳚ ॥
पदपाठः (Word-by-word)
प्र । य॒ज्ञः । ए॒तु॒ । आ॒नु॒षक् । अ॒द्य । दे॒वव्य᳚चः॑तमः ।
स्तृ॒णी॒त । ब॒र्हिः । आ॒॑सदे᳚ ॥
स्तृ॒णी॒त । ब॒र्हिः । आ॒॑सदे᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अद्यास्मिन्नहनि देवव्यचस्तमः देवैः प्रकाशमानैः स्तोतृभिर्व्याप्ततमोयज्ञोयज्ञसाधनंहविरानुषक् अनुषक्तंयथाभवतितथाप्रैतु देवान् गच्छतु हेऋत्विजः आसदे अग्नेरासदानार्थं बर्हि स्तृणीत ॥ ८ ॥