श्रवणम्

5.26.7
न्य१॒᳚ग्निं जा॒तवे᳚दसं होत्र॒वाहं॒ यवि᳚ष्ठ्यम् ।
दधा᳚ता दे॒वमृ॒त्विज᳚म् ॥
▶ पदपाठः (Word-by-word)
नि । अ॒ग्निम् । जा॒त॑वे᳚दसम् । हो॒त्र॒॑वाहम् । यवि᳚ष्ठ्यम् ।
दधा᳚त । दे॒वम् । ऋ॒त्विज᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेयजमानाः जातवेदसं जातानिभूतानिवेत्तीतिजातवेदाः तं होत्रवाहं होत्रस्ययज्ञस्य वोढारं यविष्ठ्यंयुवतमं देवं द्योतमानं ऋत्विजं ऋतौयष्टारं अग्निंनिदधात निधत्त ॥ ७ ॥