तुभ्यं᳚ भरन्ति क्षि॒तयो᳚ यविष्ठ ब॒लिम᳚ग्ने॒ अन्ति᳚त॒ ओत दू॒रात् ।
आ भन्दि᳚ष्ठस्य सुम॒तिं चि᳚किद्धि बृ॒हत्ते᳚ अग्ने॒ महि॒ शर्म᳚ भ॒द्रम् ॥
आ भन्दि᳚ष्ठस्य सुम॒तिं चि᳚किद्धि बृ॒हत्ते᳚ अग्ने॒ महि॒ शर्म᳚ भ॒द्रम् ॥
पदपाठः (Word-by-word)
तुभ्य᳚म् । भ॒र॒न्ति॒ । क्षि॒तयः᳚ । य॒वि॒ष्ठ॒ । ब॒लिम् । अ॒ग्ने॒ । अन्ति᳚तः । आ । उ॒त । दू॒रात् ।
आ । भन्दि᳚ष्ठस्य । सु॒॑म॒तिम् । चि॒कि॒द्धि॒ । बृ॒हत् । ते॒ । अ॒ग्ने॒ । महि᳚ । शर्म᳚ । भ॒द्रम् ॥
आ । भन्दि᳚ष्ठस्य । सु॒॑म॒तिम् । चि॒कि॒द्धि॒ । बृ॒हत् । ते॒ । अ॒ग्ने॒ । महि᳚ । शर्म᳚ । भ॒द्रम् ॥
सायणभाष्यम् (Sayana Commentary)
हे यविष्ठ युवतमाग्ने तुभ्यं क्षितयो मनुष्या भरन्ति । सम्पादयन्ति । किम् । बलिं पूजां हविर्लक्शणामन्तितोऽन्तिकादुतापि च दूरात् । आ इति चार्थे । किञ्च भन्दिष्थस्यातिशयेन स्तोतुः सुमतिं स्तुतिमा चिकिद्धिः । अजानीहि । हे अग्ने ते तव शर्म सुखमस्मभ्यं दातव्यं बृहन्महद्भद्रं स्तुत्यं च ॥ १० ॥