प्र स॒द्यो अ᳚ग्ने॒ अत्ये᳚ष्य॒न्याना॒विर्यस्मै॒ चारु᳚तमो ब॒भूथ᳚ ।
ई॒ळेन्यो᳚ वपु॒ष्यो᳚ वि॒भावा᳚ प्रि॒यो वि॒शामति᳚थि॒र्मानु᳚षीणाम् ॥
ई॒ळेन्यो᳚ वपु॒ष्यो᳚ वि॒भावा᳚ प्रि॒यो वि॒शामति᳚थि॒र्मानु᳚षीणाम् ॥
पदपाठः (Word-by-word)
प्र । स॒द्यः । अ॒ग्ने॒ । अति᳚ । ए॒षि॒ । अ॒न्यान् । आ॒विः । यस्मै᳚ । चारु᳚॑तमः । ब॒भूथ᳚ ।
ई॒ळेन्यः᳚ । व॒पु॒ष्यः᳚ । वि॒भा॑वा᳚ । प्रि॒यः । वि॒शाम् । अति᳚थिः । मानु᳚षीणाम् ॥
ई॒ळेन्यः᳚ । व॒पु॒ष्यः᳚ । वि॒भा॑वा᳚ । प्रि॒यः । वि॒शाम् । अति᳚थिः । मानु᳚षीणाम् ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने त्वं यज्ञमासाद्य सद्यस्तदानीमेवान्यान् स्वसमानानत्येषि अतिक्रामसि । यस्मै चारुतमः सन्नविर्बभूव । किञ्च त्वमीळेन्यः स्तुत्यो वपुष्यो वपुष्करो दीप्तिकरो वा विभावा विशिष्टदीप्तिमान् प्रियः प्रियभूतो विशां सर्वेषां प्राणिनां तथातिथिः पूज्यो मानुषीणां प्रजानां भवसि ॥ ९ ॥