श्रवणम्

5.1.11 समानपद
आद्य रथं᳚ भानुमो भानु॒मन्त॒मग्ने॒ तिष्ठ᳚ यज॒तेभि॒ः सम᳚न्तम् ।
वि॒द्वान्प᳚थी॒नामु॒र्व१॒᳚न्तरि᳚क्ष॒मेह दे॒वान्ह᳚वि॒रद्या᳚य वक्षि ॥
▶ पदपाठः (Word-by-word)
आ । अ॒द्य । रथ᳚म् । भा॒नु॒॑मः॒ । भा॒नु॒॑मन्त᳚म् । अग्ने᳚ । तिष्ठ᳚ । य॒ज॒तेभिः᳚ । सम्॑अ᳚न्तम् ।
वि॒द्वान् । प॒थी॒नाम् । उ॒रु । अ॒न्तरि᳚क्षम् । आ । इ॒ह । दे॒वान् । ह॒विः॒॑अद्या᳚य । व॒क्षि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे भानमो दीप्तिमन्नग्ने अद्यास्मिन्यागदिने भानुमन्तं दीप्तिमन्तं समन्तं संईचीनप्रान्तोपेतं रथं यजतेभिर्यष्टव्यैर्देवैः सहा तिष्ठ । आरोह । विद्वान्यष्टव्यदेवपरिज्ञानवांस्त्वं पथीनां देवयजनमार्गान्प्रति । द्वितीयार्थे षष्ठी । उर्वन्तरिक्षं प्रभुतेऽन्तरिक्षे देवान्यष्टव्यान्हविरद्याय हविर्भक्षणायेहावक्षि । आवहसि ॥ ११ ॥