अ॒ग्निर्होता॒ न्य᳚सीद॒द्यजी᳚यानु॒पस्थे᳚ मा॒तुः सु᳚र॒भा उ᳚ लो॒के ।
युवा᳚ क॒विः पु᳚रुनि॒ष्ठ ऋ॒तावा᳚ ध॒र्ता कृ᳚ष्टी॒नामु॒त मध्य᳚ इ॒द्धः ॥
युवा᳚ क॒विः पु᳚रुनि॒ष्ठ ऋ॒तावा᳚ ध॒र्ता कृ᳚ष्टी॒नामु॒त मध्य᳚ इ॒द्धः ॥
पदपाठः (Word-by-word)
अ॒ग्निः । होता᳚ । नि । अ॒सी॒द॒त् । यजी᳚यान् । उ॒प॑स्थे᳚ । मा॒तुः । सु॒र॒भौ । ऊं॒ इति᳚ । लो॒के ।
युवा᳚ । क॒विः । पु॒रु॒निः॒॑स्थः । ऋ॒त॑वा᳚ । ध॒र्ता । कृ॒ष्टी॒नाम् । उ॒त । मध्ये᳚ । इ॒द्धः ॥
युवा᳚ । क॒विः । पु॒रु॒निः॒॑स्थः । ऋ॒त॑वा᳚ । ध॒र्ता । कृ॒ष्टी॒नाम् । उ॒त । मध्ये᳚ । इ॒द्धः ॥
सायणभाष्यम् (Sayana Commentary)
जीवति यजमाने मृत इति शब्दो यदि स्यात्तदानीं सुरभिमतीष्ठिः कार्या । तत्रेयमनुवाक्या । सूत्रितं च । अग्निर्होता न्यसीदद्यजीयान्त्साध्वीमकर्देववीतिं नो अद्य । ऐ. ब्रां. ७-९ । इति ॥
अयमग्निर्होता होमनिश्पादहः सन् यजीयान्यश्टव्यश्च सन् न्यसीदत् । निषसाद । कुत्रेति तदुच्यते । मातुः सर्वस्य निर्मातुर्भूम्या उपस्थ उत्सङ्गे तत्रापि सुरभावाज्यादिसौरभ्ययुक्ते लोके सर्वैर्द्रष्टव्ये स्थाने वेदिलक्षणे । उतापि च युवा नित्यतरुणः सर्वत्र मिश्रितो वा कविर्मेधावी पुरुनिःष्ठो बहुस्थान ऋतावा यज्ञवान्धर्ता सर्वस्य धारक एवं भूतः सन् कृष्टीनामृत्विग्यजमानानां मध्य इद्धः समिद्धः सन् वर्तत इति शेषः ॥ ६ ॥