श्रवणम्

5.1.2 समानपद
अबो᳚धि॒ होता᳚ य॒जथा᳚य दे॒वानू॒र्ध्वो अ॒ग्निः सु॒मना᳚ः प्रा॒तर᳚स्थात् ।
समि᳚द्धस्य॒ रुश᳚ददर्शि॒ पाजो᳚ म॒हान्दे॒वस्तम᳚सो॒ निर᳚मोचि ॥
▶ पदपाठः (Word-by-word)
अबो᳚धि । होता᳚ । य॒जथा᳚य । दे॒वान् । ऊ॒र्ध्वः । अ॒ग्निः । सु॒॑मनाः᳚ । प्रा॒तः । अ॒स्था॒त् ।
सम्॑इ᳚द्धस्य । रुश᳚त् । अ॒द॒र्शि॒ । पाजः᳚ । म॒हान् । दे॒वः । तम᳚सः । निः । अ॒मो॒चि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं होता होमनिष्पादकोऽग्निर्देवान्यष्टव्यान्यजथाय यष्टुमबोधि । बुध्यते । सोऽग्नि प्रातः काले सुमना शोभनमनस्को यजमानानुग्रह बुद्धिः सन् ऊर्ध्वोऽस्थात् । उत्तिष्थति । समिद्धस्यास्य रुद्रोचमानं पाजो बलं ज्वालालक्षणमदर्शि । दृश्यते । अथ तथाभूतो महान्देवस्तमसोऽन्धकारान्निरमोचि । निर्मुक्तोऽभूत् ॥ २ ॥