मा॒र्जा॒ल्यो᳚ मृज्यते॒ स्वे दमू᳚नाः कविप्रश॒स्तो अति᳚थिः शि॒वो नः᳚ ।
स॒हस्र᳚शृङ्गो वृष॒भस्तदो᳚जा॒ विश्वा{4}᳚ अग्ने॒ सह᳚सा॒ प्रास्य॒न्यान् ॥
स॒हस्र᳚शृङ्गो वृष॒भस्तदो᳚जा॒ विश्वा{4}᳚ अग्ने॒ सह᳚सा॒ प्रास्य॒न्यान् ॥
पदपाठः (Word-by-word)
मा॒र्जा॒ल्यः᳚ । मृ॒ज्य॒ते॒ । स्वे । दमू᳚नाः । क॒वि॒॑प्र॒श॒स्तः । अति᳚थिः । शि॒वः । नः॒ ।
स॒हस्र᳚॑शृङ्गः । वृ॒ष॒भः । तत्॑ओ᳚जाः । विश्वा᳚न् । अ॒ग्ने॒ । सह᳚सा । प्र । अ॒सि॒ । अ॒न्यान् ॥
स॒हस्र᳚॑शृङ्गः । वृ॒ष॒भः । तत्॑ओ᳚जाः । विश्वा᳚न् । अ॒ग्ने॒ । सह᳚सा । प्र । अ॒सि॒ । अ॒न्यान् ॥
सायणभाष्यम् (Sayana Commentary)
मार्जाल्यः सम्मार्जनीयोऽयमग्निर्मृज्यते । परिचर्यते । स्वे स्वकीये स्थाने । कीदृशोऽयम् । दमूना दानमना दान्तमना वा कविप्रशस्तः कविभिर्मेधाविभिः प्रशस्तः प्रकर्षेण स्तुत्यो नोऽस्माकमतिथिरतिथिवत्पूज्यः शिवः सुखकरश्च । सहस्रशृङ्गोऽपरिमितज्वालो वृषभो वर्षिता फलानां तदोजाः । यत्प्रसिद्धं बलं तेजो वास्ति त देवौजो यस्य तादृशः । सर्वबलस्वरूप इत्यर्थः । अथ प्रत्यक्षवादः । हे अग्ने विश्वानन्यान् स्वव्यतिरिक्तान् सर्वान् सहसा बलेन प्रासि । प्रेतिपरेत्यर्थे । पराभवसि । व्याप्तुं वा प्रभवसि ॥ ८ ॥