श्रवणम्

5.1.4
अ॒ग्निमच्छा᳚ देवय॒तां मनां᳚सि॒ चक्षूं᳚षीव॒ सूर्ये॒ सं च᳚रन्ति ।
यदीं॒ सुवा᳚ते उ॒षसा॒ विरू᳚पे श्वे॒तो वा॒जी जा᳚यते॒ अग्रे॒ अह्ना᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम् । अच्छ᳚ । दे॒व॒॑य॒ताम् । मनां᳚सि । चक्षूं᳚षि॑इव । सूर्ये᳚ । सम् । च॒र॒न्ति॒ ।
यत् । ई॒म् । सुवा᳚ते । उ॒षसा᳚ । विरू᳚पे॒ इति॒ वि॑रू᳚पे । श्वे॒तः । वा॒जी । जा॒य॒ते॒ । अग्रे᳚ । अह्ना᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निं देवमच्छाभिमुख्येन देवयतां देवानात्मन इच्छतां यजमानानां नमांसि सं चरन्ति । देवा यष्टव्यास्तदर्थं कदायं वर्धिष्यतीति ध्यायन्तीत्यर्थः । चक्षुंषीव सर्वेषां प्राणिनां यथा सूर्ये सञ्चरन्ति तद्वत् । यद्यदेमेनमग्निमुषसा सह विरूपे नानारूपे द्यावापृथिव्यौ सुवाते । जनयतः । तदानीं श्वेतः प्रकृष्टवर्णोपेतो वाजी वेजनवानग्निरह्नामग्र उदयकाले जायते । प्रवर्धत इत्यर्थः ॥ ४ ॥