यदीं᳚ ग॒णस्य᳚ रश॒नामजी᳚ग॒ः शुचि᳚रङ्क्ते॒ शुचि᳚भि॒र्गोभि᳚र॒ग्निः ।
आद्दक्षि᳚णा युज्यते वाज॒यन्त्यु᳚त्ता॒नामू॒र्ध्वो अ᳚धयज्जु॒हूभि᳚ः ॥
आद्दक्षि᳚णा युज्यते वाज॒यन्त्यु᳚त्ता॒नामू॒र्ध्वो अ᳚धयज्जु॒हूभि᳚ः ॥
पदपाठः (Word-by-word)
यत् । ई॒म् । ग॒णस्य᳚ । र॒श॒नाम् । अजी᳚ग॒रिति᳚ । शुचिः᳚ । अ॒ङ्क्ते॒ । शुचि᳚॑भिः । गोभिः᳚ । अ॒ग्निः ।
आत् । दक्षि᳚णा । यु॒ज्य॒ते॒ । वा॒ज॒॑यन्ती᳚ । उ॒त्ता॒नाम् । ऊ॒र्ध्वः । अ॒ध॒य॒त् । जु॒हूभिः᳚ ॥
आत् । दक्षि᳚णा । यु॒ज्य॒ते॒ । वा॒ज॒॑यन्ती᳚ । उ॒त्ता॒नाम् । ऊ॒र्ध्वः । अ॒ध॒य॒त् । जु॒हूभिः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
यद्यदेमयमग्निर्गणस्य सङ्घात्मकस्य जगतो रशनां रज्जुरिव व्यापारप्रतिबन्धकं तमोऽजीगः । गिरति गृह्णाति वा । समिद्धो भवतीत्यर्थः । तदा शुचिर्दीप्तोऽग्निः शुचिभिर्गोभिर्दीप्तैः रश्मिभिरङ्क्ते । व्यनक्ति विश्वं जगत् । आदनन्तरमेव दक्षिणा प्रवृद्धा वाजयन्त्यन्नमिच्छन्त्याज्यधारा युज्यते । युक्ता भवति । अथवा दक्षिणा पव्यद्धाज्यधारा युज्यते । तां च धारामुत्तानामूर्ध्वतानामुपरि विस्तृतामूर्ध्व उन्नतः सन् जुहूभिरधयत् । पिबति ॥ ३ ॥