श्रवणम्

5.1.7
प्र णु त्यं विप्र᳚मध्व॒रेषु᳚ सा॒धुम॒ग्निं होता᳚रमीळते॒ नमो᳚भिः ।
आ यस्त॒तान॒ रोद᳚सी ऋ॒तेन॒ नित्यं᳚ मृजन्ति वा॒जिनं᳚ घृ॒तेन᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । नु । त्यम् । विप्र᳚म् । अ॒ध्व॒रेषु᳚ । सा॒धुम् । अ॒ग्निम् । होता᳚रम् । ई॒ळ॒ते॒ । नमः᳚॑भिः ।
आ । यः । त॒तान᳚ । रोद᳚सी॒ इति᳚ । ऋ॒तेन᳚ । नित्य᳚म् । मृ॒ज॒न्ति॒ । वा॒जिन᳚म् । घृ॒तेन᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्यं तमग्निं नमोभिः स्तुतिभिर्नु क्षिप्रं प्रेळते । स्तुवन्ति । कीदृशं तम् । विप्रं मेधाविनमध्वरेषु साधुं फलसाधकं होतारं होमनिष्पादकम् । यो देवो रोदसी द्यावापृथिव्यावृतेनोदकेना ततान । विस्तारितवान् । अग्नौ प्रास्ताहुतेरादित्यद्वारा वृश्ट्युत्पादकत्वात् । अथवा ऋतेन सत्यभूतेन हविषा दिवं तथाभूतेन वृष्ट्यादिफलेन भुवं चा ततान । वाजिनमन्नवन्तं देवं यजमाना नित्यं घृतेनोदकेनाज्येन वा मृजन्ति । परिचरन्ति ॥ ७ ॥