श्रवणम्

5.1.12
अवो᳚चाम क॒वये॒ मेध्या᳚य॒ वचो᳚ व॒न्दारु᳚ वृष॒भाय॒ वृष्णे᳚ ।
गवि᳚ष्ठिरो॒ नम᳚सा॒ स्तोम᳚म॒ग्नौ दि॒वी᳚व रु॒क्ममु᳚रु॒व्यञ्च᳚मश्रेत् ॥
▶ पदपाठः (Word-by-word)
अवो᳚चाम । क॒वये᳚ । मेध्या᳚य । वचः᳚ । व॒न्दारु᳚ । वृ॒ष॒भाय᳚ । वृष्णे᳚ ।
गवि᳚ष्ठिरः । नम᳚सा । स्तोम᳚म् । अ॒ग्नौ । दि॒वि॑इ᳚व । रु॒क्मम् । उ॒रु॒॑व्यञ्च᳚म् । अ॒श्रे॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वयमात्रेयाः कवये मेधाविने मेध्याय मेहार्हाय वृषभाय वर्षकाय फलानां वृष्णे सेक्त्रे यूने वन्दारु वन्दनशीलं वचः स्तोत्रमवोचाम । अथ ऋषिरात्मानम् परोक्षेणैव निर्दिश्य स्तुतिमुपसंहरति । गविष्ठिरोऽयमृषिर्नमसा नमस्कारेण हविषा वा युक्तं स्तोमं स्तोत्रमग्नावश्रेत् । श्रयतिस्म । दिवि रुक्मं रोचमानमुरुव्यञ्चमुरुगमनमादित्यमिव ॥ १२ ॥