अद᳚र्द॒रुत्स॒मसृ᳚जो॒ वि खानि॒ त्वम᳚र्ण॒वान्ब᳚द्बधा॒ना{4} अ᳚रम्णाः ।
म॒हान्त᳚मिन्द्र॒ पर्व᳚तं॒ वि यद्वः सृ॒जो वि धारा॒ अव᳚ दान॒वं ह᳚न् ॥
म॒हान्त᳚मिन्द्र॒ पर्व᳚तं॒ वि यद्वः सृ॒जो वि धारा॒ अव᳚ दान॒वं ह᳚न् ॥
पदपाठः (Word-by-word)
अद᳚र्दः । उत्स᳚म् । असृ᳚जः । वि । खानि᳚ । त्वम् । अ॒र्ण॒वान् । ब॒द्ब॒धा॒नान् । अ॒र॒म्णाः॒ ।
म॒हान्त᳚म् । इ॒न्द्र॒ । पर्व᳚तम् । वि । यत् । वरिति॒ वः । सृ॒जः । वि । धाराः᳚ । अव᳚ । दा॒न॒वम् । ह॒न्निति᳚ हन् ॥
म॒हान्त᳚म् । इ॒न्द्र॒ । पर्व᳚तम् । वि । यत् । वरिति॒ वः । सृ॒जः । वि । धाराः᳚ । अव᳚ । दा॒न॒वम् । ह॒न्निति᳚ हन् ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र त्वं उत्सं उत्स्यंदमानंमेघं अदर्दः विदारितवानसि तदनंतरं खानि मेघस्थोदकानांनिर्गमनद्वाराणि व्यसृजः विशेषेणसृष्टवानसि किंच वद्बधानान् बाध्यमानान् अर्णवान् उदकवतोमेघान् अरम्णाः विसर्जयसि क्षारयसीत्यर्थः अत्ररम्णातिविसर्जनकर्मा हेइन्द्र यत् यस्त्वं यदितिलिंगव्यत्ययः महान्तंप्रभूतंपवर्तंमेघं विवः विवृतवानसि धाराः अपांविसृजः विसृष्टवानसि अपिच दानवं दनोःपुत्रं वृत्रमसुरं यद्वा उदकस्यदातारंमेघंवा अवहन् अभिहतवानसि अत्रनिरुक्तम्-अदृणाउत्समुत्सउत्सदनाद्वोत्स्यंदना द्वोनत्तेर्वास्या -द्भ्यसृजोस्यखानित्व- मर्णवानर्णस्वतएतानित्यादि ॥ १ ॥