श्रवणम्

5.32.10
न्य᳚स्मै दे॒वी स्वधि᳚तिर्जिहीत॒ इन्द्रा᳚य गा॒तुरु᳚श॒तीव᳚ येमे ।
सं यदोजो᳚ यु॒वते॒ विश्व᳚माभि॒रनु᳚ स्व॒धाव्ने᳚ क्षि॒तयो᳚ नमन्त ॥
▶ पदपाठः (Word-by-word)
नि । अ॒स्मै॒ । दे॒वी । स्व॑धि᳚तिः । जि॒ही॒ते॒ । इन्द्रा᳚य । गा॒तुः । उ॒श॒ती॑इ᳚व । ये॒मे॒ ।
सम् । यत् । ओजः᳚ । यु॒वते᳚ । विश्व᳚म् । आ॒भिः॒ । अनु᳚ । स्व॒धा॑व्ने᳚ । क्षि॒तयः᳚ । न॒म॒न्त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वधितिः स्वधृतिः स्वेनधृतादेवीद्योतमानाद्यौः अस्माइन्द्रायनिजिहीते नीचत्वेनयाति गातुर्भूमिः उशतीव कामयमानायोषिदिव इन्द्राय येमे आत्मानंनियच्छती यथेष्टमात्मानंविनियोक्तुंयोग्याभवतीत्यर्थः यद्यदेन्द्रः विश्वंसमस्तं ओजोबलं आभिः प्रजाभिः संयुवते संयोजयति इन्द्रःस्वकीयंबलं सर्वासुप्रजासुनिहितवानित्यर्थः अनुआनुकूल्येनवर्तमानाः क्षितयोमनुष्याः क्षितयइतिमनुष्यनामैतत् स्वधाव्नेबलवतइन्द्राय नमन्त सन्नमन्ति प्रह्वीभवंति ॥ १० ॥