श्रवणम्

5.32.6
त्यं चि᳚दि॒त्था क᳚त्प॒यं शया᳚नमसू॒र्ये तम᳚सि वावृधा॒नम् ।
तं चि᳚न्मन्दा॒नो वृ᳚ष॒भः सु॒तस्यो॒च्चैरिन्द्रो᳚ अप॒गूर्या᳚ जघान ॥
▶ पदपाठः (Word-by-word)
त्यम् । चि॒त् । इ॒त्था । क॒त्प॒यम् । शया᳚नम् । अ॒सू॒र्ये । तम᳚सि । व॒वृ॒धा॒नम् ।
तम् । चि॒त् । म॒न्दा॒नः । वृ॒ष॒भः । सु॒तस्य᳚ । उ॒च्चैः । इन्द्रः᳚ । अ॒प॒॑गूर्य᳚ । ज॒घा॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुतस्याभिषुतेनसोमेनमंदानोमोदमानःवृषभः कामानांवर्षितेन्द्रः उच्चैरूर्ध्वं अपगूर्य वज्रमुद्यम्य तंचित् तमेववृत्रंजघानावधीत् कीदृशं इत्थामुत्रान्तरिक्षलोके कत्पयं कत्सुखकरंपयोयस्यतं शयानं अप्सुशयानंकुर्वन्तं असूर्ये सूर्यरहिते तमस्यन्धकारे ववृधानं वर्धमानंत्यं चिदितिपुनर्वचनंपूरणार्थम् ॥ ६ ॥