श्रवणम्

5.32.11 समानपद
एकं॒ नु त्वा॒ सत्प᳚तिं॒ पाञ्च᳚जन्यं जा॒तं शृ᳚णोमि य॒शसं॒ जने᳚षु ।
तं मे᳚ जगृभ्र आ॒शसो॒ नवि᳚ष्ठं दो॒षा वस्तो॒र्हव᳚मानास॒ इन्द्र᳚म् ॥
▶ पदपाठः (Word-by-word)
एक᳚म् । नु । त्वा॒ । सत्॑प᳚तिम् । पाञ्च᳚॑जन्यम् । जा॒तम् । शृ॒णो॒मि॒ । य॒शस᳚म् । जने᳚षु ।
तम् । मे॒ । ज॒गृ॒भ्रे॒ । आ॒॑शसः᳚ । नवि᳚ष्ठम् । दो॒षा । वस्तोः᳚ । हव᳚मानासः । इन्द्र᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वा त्वां एकंनु मुख्यमेव जनेषुसर्वेषुमनुष्येषुमध्ये अहं मंत्रद्रष्टाश्रृणोमि ऋषिमुख्येभ्यः कीदृशं सत्पतिं सतांपालकं पांचजन्यं पंचजनेभ्योमनुष्य्तेभ्योहितं जातमुत्पन्नं यशसं यशोयुक्तं दोषा क्षपायां वस्तोर्वासरेच वहमानासः स्तुवन्तः आशसः कामानंशंसमानाः मे मदीयाःप्रजाः नविष्ठं अतिशयेनस्तुत्यं तमिन्द्रंजगृभ्रे गृय्ह्णन्तु स्वीकुर्वन्तु ॥ ११ ॥