श्रवणम्

5.32.9
को अ᳚स्य॒ शुष्मं॒ तवि᳚षीं वरात॒ एको॒ धना᳚ भरते॒ अप्र᳚तीतः ।
इ॒मे चि᳚दस्य॒ ज्रय᳚सो॒ नु दे॒वी इन्द्र॒स्यौज᳚सो भि॒यसा᳚ जिहाते ॥
▶ पदपाठः (Word-by-word)
कः । अ॒स्य॒ । शुष्म᳚म् । तवि᳚षीम् । व॒रा॒ते॒ । एकः᳚ । धना᳚ । भ॒र॒ते॒ । अप्र᳚ति॑इतः ।
इ॒मे । चि॒त् । अ॒स्य॒ । ज्रय᳚सः । नु । दे॒वी इति᳚ । इन्द्र᳚स्य । ओज᳚सः । भि॒यसा᳚ । जि॒हा॒ते॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्येन्द्रस्यसंबन्धिनींशुष्मंशोषणींतविषींबलं कोवराते निवारयेत् शुष्मशब्दस्यस्त्रीलिंगविशेषणत्वेपि नियतलिंगत्वात्पुंसिपुल्लिंगत्वमेव अप्रतीतः केनाप्यप्रतिगतइन्द्रः एकोऽसहायएव धना धनानि शत्रूणांवसूनि भरते बिभर्ति हरतेवा देवी देव्यौ द्योतमाने इमेचित् एतेएवद्यावापृथिव्यौ ज्रयसोवेगवतोस्येन्द्रस्यसंबन्धिनः ओजसोबलादुद्भूतेनभियसाभयेन नुक्षिप्रं जिहाते गच्छतः चलतइत्यर्थः ॥ ९ ॥