श्रवणम्

5.32.4
त्यं चि᳚देषां स्व॒धया॒ मद᳚न्तं मि॒हो नपा᳚तं सु॒वृधं᳚ तमो॒गाम् ।
वृष᳚प्रभर्मा दान॒वस्य॒ भामं॒ वज्रे᳚ण व॒ज्री नि ज᳚घान॒ शुष्ण᳚म् ॥
▶ पदपाठः (Word-by-word)
त्यम् । चि॒त् । ए॒षा॒म् । स्व॒धया᳚ । मद᳚न्तम् । मि॒हः । नपा᳚तम् । सु॒॑वृध᳚म् । त॒मः॒॑गाम् ।
वृष᳚॑प्रभर्मा । दा॒न॒वस्य᳚ । भाम᳚म् । वज्रे᳚ण । व॒ज्री । नि । ज॒घा॒न॒ । शुष्ण᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषांप्राणिनां स्वधयान्नेन मदन्तं मोदमानं सर्वप्राणिनामन्नं स्वयमेवभुंजानं मिहः सेचनसमर्थस्यमेघस्य नपातं पातारंरक्षितारं अत्रनपच्छब्दः पातरिवर्तते प्राणोवैतनूनपात्सहितन्वः पातीतिब्राह्मणम् । सुवृधंप्रवृद्धं तमोगांतमोन्धकारंगच्छन्तं त्यंचित् तंचवृत्रंनिजघानेतिशेषः वृषप्रभर्मा वर्षणशीलस्यमेघस्यप्रहर्ता वज्रीवज्रवानिन्द्रः वज्रेणस्वकीयेनायुधेन दानवस्य दनुजस्यभामं अत्रक्रोधवाचिभामशब्देनक्रोधादुत्पन्नः शुष्णासुरोलक्ष्यते तंशुष्णमसुरंनिजघानहतवान् ॥ ४ ॥