त्यस्य᳚ चिन्मह॒तो निर्मृ॒गस्य॒ वध᳚र्जघान॒ तवि᳚षीभि॒रिन्द्र᳚ः ।
य एक॒ इद᳚प्र॒तिर्मन्य᳚मान॒ आद᳚स्माद॒न्यो अ᳚जनिष्ट॒ तव्या᳚न् ॥
य एक॒ इद᳚प्र॒तिर्मन्य᳚मान॒ आद᳚स्माद॒न्यो अ᳚जनिष्ट॒ तव्या᳚न् ॥
पदपाठः (Word-by-word)
त्यस्य᳚ । चि॒त् । म॒ह॒तः । निः । मृ॒गस्य᳚ । वधः᳚ । ज॒घा॒न॒ । तवि᳚षीभिः । इन्द्रः᳚ ।
यः । एकः᳚ । इत् । अ॒प्र॒तिः । मन्य᳚मानः । आत् । अ॒स्मा॒त् । अ॒न्यः । अ॒ज॒नि॒ष्ट॒ । तव्या᳚न् ॥
यः । एकः᳚ । इत् । अ॒प्र॒तिः । मन्य᳚मानः । आत् । अ॒स्मा॒त् । अ॒न्यः । अ॒ज॒नि॒ष्ट॒ । तव्या᳚न् ॥
सायणभाष्यम् (Sayana Commentary)
इन्द्रोमहतः प्रभूतस्यमृगस्यमृगवच्छीघ्रगामिनः त्यस्यचित् तस्यवृत्रस्यसंबन्धि वधरायुधंतविषीभिः स्वकीयैर्बलैर्निर्जघान निःशेषेणावधीत् एकइत् असहायएव अप्रतिः प्रतिद्वंद्विरहितः मन्यमानाः आत्मानंयोस्तीतिशेषः आत् तदानींअस्मात्वृत्रात् तव्यान् प्रवृद्धतरोन्योसुरः अजनिष्ट प्रादुरभूत् ॥ ३ ॥