श्रवणम्

5.32.8
त्यं चि॒दर्णं᳚ मधु॒पं शया᳚नमसि॒न्वं व॒व्रं मह्याद᳚दु॒ग्रः ।
अ॒पाद᳚म॒त्रं म᳚ह॒ता व॒धेन॒ नि दु᳚र्यो॒ण आ᳚वृणङ्मृ॒ध्रवा᳚चम् ॥
▶ पदपाठः (Word-by-word)
त्यम् । चि॒त् । अर्ण᳚म् । म॒धु॒॑पम् । शया᳚नम् । अ॒सि॒न्वम् । व॒व्रम् । महि᳚ । आद᳚त् । उ॒ग्रः ।
अ॒पाद᳚म् । अ॒त्रम् । म॒ह॒ता । व॒धेन᳚ । नि । दु॒र्यो॒णे । अ॒वृ॒ण॒क् । मृ॒ध्र॑वा᳚चम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उग्रः उद्गूर्णबलः इन्द्रोमहि महान्तं त्यंचित् तमेववृत्रं आददाददौ प्रत्यग्रहीत् कीदृशं अर्णं ग्न्तारं जलंमेघंवा आवृत्यशयानं शयनंकुर्वन्तं स्थितवन्तमित्यर्थः मधुपं मधुनोंभसः पातारं पालयितारं असिन्वंसपत्नानामवक्षेप्तारं अस्यतेरिदंरूपं वव्रं वृण्वन्तं सर्वमप्याच्छादयन्तं सइमान् लोकानवृणोद्यदिमान् लोकानवृणोत्तद्वृत्रस्यवृत्रत्वमितिहितैत्तिरीयकम् । तदनंतरमिन्द्रः दुर्योणे संग्रामे महताप्रभूतेनवधेन वज्रेण अपादं पादरहितं अत्रममात्रं परिप्राणरहितं मृध्रवाचं हिंसितवागिन्द्रियं जृंभाभिभूतमित्यर्थः वृत्रंन्यवृणक् नितरामहिंसीत् तस्माज्जंजभ्यमानात् अग्नीषोमौ निरक्रामतां प्राणापानौवाएनंतदुज्जिहातामितिहितैत्तिरीयकम् ॥ ८ ॥