त्वमुत्सा{4}᳚ ऋ॒तुभि᳚र्बद्बधा॒ना{4} अरं᳚ह॒ ऊध॒ः पर्व᳚तस्य वज्रिन् ।
अहिं᳚ चिदुग्र॒ प्रयु᳚तं॒ शया᳚नं जघ॒न्वा{4} इ᳚न्द्र॒ तवि᳚षीमधत्थाः ॥
अहिं᳚ चिदुग्र॒ प्रयु᳚तं॒ शया᳚नं जघ॒न्वा{4} इ᳚न्द्र॒ तवि᳚षीमधत्थाः ॥
पदपाठः (Word-by-word)
त्वम् । उत्सा᳚न् । ऋ॒तु॑भिः᳚ । ब॒द्ब॒धा॒नान् । अरं᳚हः । ऊधः᳚ । पर्व᳚तस्य । व॒ज्रि॒न् ।
अहि᳚म् । चि॒त् । उ॒ग्र॒ । प्र॑यु᳚तम् । शया᳚नम् । ज॒घ॒न्वान् । इ॒न्द्र॒ । तवि᳚षीम् । अ॒ध॒त्थाः॒ ॥
अहि᳚म् । चि॒त् । उ॒ग्र॒ । प्र॑यु᳚तम् । शया᳚नम् । ज॒घ॒न्वान् । इ॒न्द्र॒ । तवि᳚षीम् । अ॒ध॒त्थाः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेवज्रिन् वज्रवन्निन्द्र त्वं ऋतुभिः ऋतुषुवृष्टिकालेषुबद्बधानान् प्रतिबध्यमानान् उत्सान् मेघान् प्रतिबन्धनादमोचयइतिशेषः अपिच पर्वतस्यमेघस्यसंबन्धि ऊधोबलं अरंहः अगमयः हेउग्र उद्गूर्णबलेन्द्र प्रयुतमुद्युक्तं शयानं जलेशयनंकुर्वन्तं अहिंचिद्वृत्रंचजघन्वान् हत- वानसि हेइन्द्र त्वंतविषींबलं अधत्थाः अधारयः वृत्रवधानंतरंइन्द्रोलोकेप्रख्यातोभवतीत्यर्थः ॥ २ ॥